|
|
 |
 |
|
|
७ द्रोणपर्व.jpg)
॥ श्रीः ॥
7.26. अध्यायः 026
Mahabharata - Drona Parva - Chapter Topics
भगदत्तपराक्रमवर्णनम्॥ 1 ॥

Mahabharata - Drona Parva - Chapter Text
धृतराष्ट्र उवाच। 7-26-0x(4320)(45864)
तेष्वेवं सन्निवृत्तेषु प्रत्युद्यातेषु भागशः।
कथं युयुधिरे पार्था मामकाश्च तरस्विनः॥ 7-26-1(45865)
किमर्जुनश्चाप्यकरोत्संशप्तकबलं प्रति।
संशप्तका वा पार्थस्य किमकुर्वत सञ्जय॥ 7-26-2(45866)
सञ्जय उवाच। 7-26-3x(4321)
तथा तेषु निवृत्तेषु प्रत्युद्यातेषु भागशः।
स्वयमभ्यद्रवद्भीमं नागानीकेन ते सुतः॥ 7-26-3(45867)
स नाग इव नागेन गोवृषेणेव गोवृषः।
समाहूतः स्वयं राज्ञा नागानीकमुपाद्रवत्॥ 7-26-4(45868)
स युद्धकुशलः पार्थो बाहुवीर्येण चान्वितः।
अभिनत्कुञ्जरानीकमचिरेणैव मारिष॥ 7-26-5(45869)
ते गजा गिरिसङ्काशाः क्षरन्तः सर्वतो मदम्।
भीमसेनस्य नाराचैर्विमुखा विमदीकृताः॥ 7-26-6(45870)
विधमेदभ्रजालानि यथा वायुः समुद्धतः।
व्यधमत्तान्यनीकानि तथैव पवनात्मजः॥ 7-26-7(45871)
स तेषु विसृजन्बाणान्भीमो नागेष्वशोभत।
भुवनेष्विव सर्वेषु गभस्तीनुदितो रविः॥ 7-26-8(45872)
ते भीमबाणाभिहताः संस्यूता विबभुर्गजाः।
गभस्तिभिरिवार्कस्य व्योम्नि नानाबलाहकाः॥ 7-26-9(45873)
तथा गजानां कदनं कुर्वाणमनिलात्मजम्।
क्रुद्धो दुर्योधनोऽभ्येत्य प्रत्यविध्यच्छितैः शरैः॥ 7-26-10(45874)
ततः क्षणेन क्षितिपं क्षतजप्रतिमेक्षणः।
क्षयं निनीषुर्निशितैर्भीमो विव्याध पत्रिभिः॥ 7-26-11(45875)
स शराचितसर्वाङ्गः क्रुद्धो विव्याध पाण्डवम्।
नाराचैरर्करश्म्याभैर्भीमसेनं स्मयन्निव॥ 7-26-12(45876)
तस्य नागं मणिमयं रत्नचित्रध्वजे स्थितम्।
भल्लाभ्यां कार्मुकं चैव क्षिप्रं चिच्छेद पाण्डवः॥ 7-26-13(45877)
दुर्योधनं पीड्यमानं दृष्ट्वा भीमेन मारिष।
चुक्षोभयिषुरभ्यागादङ्गो मातङ्गमास्थितः॥ 7-26-14(45878)
तमापतन्तं नागेन्द्रमम्बुदप्रतिमस्वनम्।
कुम्भान्तरे भीमसेनो नाराचैरार्दयद्भृशम्॥ 7-26-15(45879)
तस्य कायं विनिर्भिद्य न्यमज्जद्धरणीतले।
ततः पपात द्विरदो वज्राहत इवाचलः॥ 7-26-16(45880)
तस्वावर्जितनागस्य म्लेच्छस्याधः पतिष्यतः।
शिरश्चिच्छेद भल्लेन क्षिप्रकारी वृकोदरः॥ 7-26-17(45881)
तस्मिन्निपतिते वीरे सम्प्राद्रवत सा चमूः।
सम्भ्रान्ताश्वद्विपरथा पदातीनवमृद्गती॥ 7-26-18(45882)
तेष्वनीकेषु भग्नेषु विद्रवत्सु समन्ततः।
प्राग्ज्योतिषस्ततो भीमं कुञ्जरेण समाद्रवत्॥ 7-26-19(45883)
येन नागेन मघवानजयद्दैत्यदानवान्।
तदन्वयेन नागेन भीमसेनमुपाद्रवत्॥ 7-26-20(45884)
स नागप्रवरो भीमं सहसा समुपाद्रवत्।
श्रवणाभ्यामथो द्वाभ्यां संहतेन करेण च॥ 7-26-21(45885)
व्यावृत्तनयनः क्रुद्वः प्रमथन्निव पाण्डवम्।
वृकोदररथं साश्वमविशेषमचूर्णयत्॥ 7-26-22(45886)
पद्भ्यां भीमोऽप्यथो धावंस्तस्य गात्रेष्वलीयत।
जानन्नञ्जलिकावेधं नापाक्रामत पाण्डवः॥ 7-26-23(45887)
गात्राभ्यन्तरगो भूत्वा करेणाताडयन्मुहुः।
लालयामास तं नागं वधाकाङ्क्षिणमव्ययम्॥ 7-26-24(45888)
कुलालचक्रवन्नागस्तदा तूर्णमथाभ्रमत्।
नागायुतबलः श्रीमान्कालयानो वृकोदरम्॥ 7-26-25(45889)
भीमोऽपि निष्क्रम्य ततः सुप्रतीकाग्रतोऽभवत्।
भीमं करेणावनम्य जानुभ्यामभ्यताडयत्॥ 7-26-26(45890)
ग्रीवायां वेष्टयित्वैनं स गजो हन्तुमैहत।
करवेष्टं भीमसेनो भ्रमं दत्त्वा व्यमोचयत्॥ 7-26-27(45891)
पुनर्गात्राणि नागस्य प्रविवेश वृकोदरः।
यावत्प्रतिगजायातं स्वबलं प्रत्यवैक्षत।
भीमोपि नागगात्रेभ्यो विनिःसृत्यापयाज्जवात्॥ 7-26-28(45892)
ततः सर्वस्य सैन्यस्य नादः समभवन्महान्।
अहो धिङ्गिहतो भीमः कुज्जरेणेति मारिष॥ 7-26-29(45893)
तेन नागेन सन्त्रस्ता पाण्डवानामनीकिनी।
सहसाऽभ्यद्रवद्राजन्यत्र तस्यौ वृकोदरः॥ 7-26-30(45894)
ततो युधिष्ठिरो राजा हतं मत्वा वृकोदरम्।
भगदत्तं सपाञ्चाल्यः सर्वतः समवारयत्॥ 7-26-31(45895)
तं रथं रथिनां श्रेष्ठाः परिवार्य परन्तपाः।
अवाकिरञ्शरैस्तीक्ष्णैः शतशोऽथ सहस्रशः॥ 7-26-32(45896)
स विघातं पृषत्कानामङ्कुशेन समाहरन्।
क्षणेन पाण्डुपाञ्जालान्व्यधमत्पर्वतेश्वरः॥ 7-26-33(45897)
तदद्भुतमपश्याम भगदत्तस्य संयुगे।
तथा वृद्धस्य चरितं कुञ्जरेण विशाम्पते॥ 7-26-34(45898)
ततो राजा दशार्णानां प्राग्ज्योतिषमुपाद्रवत्।
तिर्यग्यातेन नागेन समदेनाशुगामिना॥ 7-26-35(45899)
तयोर्युद्धं समभवन्नागयोर्भीमरूपयोः।
सपक्षयोः पर्वतयोर्यथा सद्रुमयोः पुरा॥ 7-26-36(45900)
प्राग्ज्योतिषपतेर्नागः सन्निवृत्त्यापसृत्य च।
पार्श्वे दशार्णाधिपतेर्भित्त्वा नागमपातयत्॥ 7-26-37(45901)
तोमरैः सूर्यरश्म्याभैर्भगदत्तोऽथ सप्तभिः।
जघान द्विरदस्थं तं शत्रुं प्रचलितासनम्॥ 7-26-38(45902)
व्यवच्छिद्य तु राजानं भगदत्तं युधिष्ठिरः।
रथानीकेन महता सर्वतः पर्यवारयत्॥ 7-26-39(45903)
स कुञ्जरस्थो रथिभिः शुशुभे सर्वतो वृतः।
पर्वते वनमध्यस्थो ज्वलन्निव हुताशनः॥ 7-26-40(45904)
मण्डलं सर्वतः श्लिष्टं रथिनामुग्रधन्विनाम्।
किरतां शरवर्षाणि स नागः पर्यवर्तत॥ 7-26-41(45905)
ततः प्राग्ज्योतिषो राजा परिगृह्य महागजम्।
प्रेषयामास सहसा युयुधानरथं प्रति॥ 7-26-42(45906)
`आपतन्तं च सम्प्रेक्ष्य नागं सात्वतपुङ्गवः।
अविध्यत्पञ्चभिर्बाणैः शितैराशीविषोपमैः'॥ 7-26-43(45907)
शिनेः पौत्रस्य तु रथं परिगृह्य महाद्विपः।
अभिचिक्षेप वेगेन युयुधानस्त्वपाक्रमत्॥ 7-26-44(45908)
बृहतः सैन्धवानश्वान्समुत्थाप्यथ सारथिः।
तस्थौ सात्यकिमासाद्य सम्प्लुतस्तं रथं प्रति॥ 7-26-45(45909)
स तु लब्ध्वान्तरं नागस्त्वरितो रथमण्डलात्।
निष्पतन्सततं सर्वान्परिचिक्षेप पार्थिवान्॥ 7-26-46(45910)
ते त्वाशुगतिना तेन त्रास्यमाना नरर्षभाः।
तमेकं द्विरदं सङ्ख्ये मेनिरे शतशो द्विपान्॥ 7-26-47(45911)
ते गजस्थेन काल्यन्ते भगदत्तेन पार्थिवाः।
ऐरावतस्थेन यथा देवराजेन दानवाः॥ 7-26-48(45912)
तेषां प्रद्रवतां भीमः पाञ्चालानामितस्ततः।
गजवाजिकृतः शब्दः सुमहान्समजायत॥ 7-26-49(45913)
भगदत्तेन समरे काल्यमानेषु पाण्डुषु।
प्राग्ज्योतिषमभिक्रुद्धः पुनर्भीमः समभ्ययात्॥ 7-26-50(45914)
तस्याभिद्रवतो वाहान्हस्तमुक्तेन वारिणा।
सिक्त्वा व्यत्रासयन्नागस्ते पार्थसहरंस्ततः॥ 7-26-51(45915)
ततस्तमभ्ययात्तूर्णं रुचिपर्वा कृतीसुतः।
समघ्नञ्छरवर्षेण रथस्योऽन्तकसन्निभः॥ 7-26-52(45916)
ततः स रुचिपर्वाणं शरेणानतपर्वणा।
सुपर्वा पर्वतपतिर्निन्ये वैवस्वतक्षयम्॥ 7-26-53(45917)
तस्मिन्निपतिते वीरे सौभद्रो द्रौपदीसुतः।
चेकितानो धृष्टकेतुर्ययुत्सुश्चार्दयन्द्विपम्॥ 7-26-54(45918)
त एनं शरधाराभिर्धाराभिरिव तोयदाः।
सिषिचुर्भैरवान्नादान्विनदन्तो जिघांसवः॥ 7-26-55(45919)
ततः पार्ष्ण्यङ्कुशाङ्गुष्ठैः कृतिना चोदितो द्विपः।
प्रसारितकरः प्रायात्स्तब्धकर्णेक्षणो द्रुतम्॥ 7-26-56(45920)
सोऽधिष्ठाय पदा वाहान्युयुत्सोः सूतमारुजत्।
युयुत्सुस्तु रथाद्राजन्नपाक्रामत्त्वरान्वितः॥ 7-26-57(45921)
ततः पाण्डवयोधास्ते नागराजं शरैर्द्रुतम्।
सिषिचुर्भैरवान्नादान्विनदन्तो जिघांसवः॥ 7-26-58(45922)
पुत्रस्तु तव सम्भ्रान्तः सौभद्रस्याप्लुतो रथम्।
स कुञ्जरस्थो विसृजन्निषूनरिषु पार्थिवः।
बभौ रश्मीनिवादित्यो भुवनेषु समुत्सृजन्॥ 7-26-59(45923)
तमार्जुनिर्द्वादशभिर्युयुत्सुर्दशभिः शरैः।
त्रिभिस्त्रिभिर्द्रौपदेया धृष्टकेतुश्च विव्यधुः॥ 7-26-60(45924)
`चेकितानः चतुःषष्ट्या सोत्तरायुधिकं पुनः।
प्रत्यविध्यत्ततः सर्वान्भगदत्तस्त्रिभिस्त्रिभिः'॥ 7-26-61(45925)
सोऽतियत्नार्पितैर्बाणैराचितो द्विरदो बभौ।
संस्यूत इव सूर्यस्य रश्मिभिर्जलदो महान्॥ 7-26-62(45926)
नियन्तुः शिल्पयत्नाभ्यां प्रेरितोऽरिशरार्दितः।
परिचिक्षेप तान्नागः स रिपून्सव्यदक्षिणम्॥ 7-26-63(45927)
गोपाल इव दण्डेन यथा पशुगणान्वने।
सङ्कालयति तां सेनां भगदत्तस्तथा मुहुः॥ 7-26-64(45928)
क्षिप्रं श्येनाभिप्रन्नानां वायसानामिव स्वनः।
बभूव पाण्डवेयानां भृशं विद्रवतां स्वनः॥ 7-26-65(45929)
स नागराजः प्रवराङ्कुशाहतः
पुरा सपक्षोऽद्रिवरो यथा नृप।
भयं तदा रिपुषु समादधद्भृशं
वणिग्जनानां क्षुभितो यथाऽर्णवः॥ 7-26-66(45930)
ततो ध्वनिर्द्विरदरथाश्वपार्थिवै
र्भयाद्रवद्भिर्जनितोऽतिभैरवः।
क्षितिं वियद् द्यां विदिशो दिशस्तथा
समावृणोत्पार्थिवसंयुगे ततः॥ 7-26-67(45931)
स तेन नागप्रवरेण पार्थिवो
भृशं जगाहे द्विषतामनीकिनीम्।
पुरा सुगुप्तां विबुधैरिवाहवे
विरोचनो देववरूतिनीमिव॥ 7-26-68(45932)
भृशं ववौ ज्वलनसखो वियद्रजः
समावृणोन्मुहुरपि चैव सैनिकान्।
तमेकनागं गणशो यथा गजान्
समन्ततो द्रुतमथ मेनिरे जनाः॥ ॥ 7-26-69(45933)
इति श्रीमन्महाभारते द्रोणपर्वणि संशप्तकवधपर्वणि द्वादशदिवसयुद्धे षड्विंशोऽध्यायः॥ 26 ॥
Mahabharata - Drona Parva - Chapter Footnotes
5-26-17 आवर्जितः पतनप्रवणो नागो यस्य॥ 5-26-21 संहतेन सङ्कुचितेन ॥ 5-26-35 तिर्यग्यातेन पार्श्वतोगामिना॥ 5-26-39 व्यवच्छिद्य विद्ध्वा॥ 5-26-41 पर्यवर्तत भ्रान्तवान्॥ 5-26-45 समुत्थाप्य स्थिरीकृत्य॥ 5-26-52 सुपर्वा पार्वतीसुतः इति क.ङ.पाठः॥ 5-26-53 सुपर्वा शोभनाङ्गसंधिः॥ 5-26-67 वियदाकाशम्। द्यां स्वर्गम्॥ 5-26-26 षड्विंशोऽध्यायः॥


|
 100000 shlokas.jpg)
|
|
"Bharathiya Sanatana Dharm" and Sanatana Dharmam & Dharmo rakshati Rakshitha logo are our trademarks. Unauthorised use of "Sanatana Dharmam & Dharmo rakshoati Rakshitha" and the logo is not allowed. Copyright © sanatanadharm.com All Rights Reserved . Made in India. |
| |
| |
|
|
| |
|
|
| |
|
|